SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । हनश्च समूलात् । ५ । ४ । ६३ । समूलाद्वयाप्यात्पराद्धन्तेः कषेश्व तस्यैव सम्बन्धे णम्वा स्यात् । समूलघातं हन्ति । समूलकाषं कषति ॥ ६३ ॥ करणेभ्यः । ५ । ४ । ६४ । करणार्थात्पराद्धन्तेस्तस्यैव सम्बन्धे णम्वा स्यात् । पाणिघातं कुड्यमाहन्ति ॥ ६४ ॥ ३५१ स्वस्नेहनार्थात्पुषपिषः । ५ । ४ । ६५ । स्वशब्दार्थात स्नेहनाथच करणार्थात्पराद्यथासङ्ख्यं पुषः पिषश्च तस्यैव सम्बन्धे णम्वा स्यात् । स्वपोषं पुष्णाति । एवमात्मपोषम् । उदपेषं पिनष्टि । एवं क्षीरपेषम् ॥ ६५ ॥ हस्तार्थाद्ग्रहवर्त्तिवृतः । ५ । ४ । ६६ । हस्तात्करणवाचिनः परेभ्य एभ्यस्तस्यैव सम्बन्धे णम्वा स्यात् । हस्तग्राहं गृह्णाति । एवं करग्राहम् । हस्तव वर्त्तयति । पाणिवर्त्त वर्त्तते ॥ ६६ ॥ बन्धेर्नानि । ५ । ४ । ६७ । बन्धिः प्रकृतिर्नाम विशेषणंच, बन्धेर्बन्धनस्य यन्नाम संज्ञा तद्विषयात्करणार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् । क्रौञ्चबन्धम्बद्धः ॥ ६७ ॥ आधारात् । ५ । ४ । ६८ । आधारार्थात्पराद्वन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् । चारकबन्ध म्बद्धः ॥ ६८ ॥ कर्तुर्जीवपुरुषान्नश्वहः । ५ । ४ । ६९ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy