SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३६० - रैमशब्दानुशासनस्य चर्मोदरात्पूरेः। ५।४।५६ । आभ्यां व्याप्याभ्यां परात्तुल्यकर्तृकार्थात्पूरयतेर्धातोः सम्बन्धे णम्मा । स्यात् । चर्मपूरमास्ते । उदरपूरं शेते ॥ ५६ ॥ वृष्टिमाने ऊलुक्चास्य वा।५।४।५७। . व्याप्यात्परात्पूरयतेर्धातोः संम्बन्धे णम्वास्यात् पूरयतेस्तेढुंक्च वा समुदायेन चेदृष्टीयत्ता गम्यते । गोष्पदपम् । गोष्पदपूरं वृष्टोमेघः ॥ ५७॥ . चेलार्थात् कोपेः । ५।४।५८ । ..... चेलार्थात् व्याप्यात्परात्कोपयतेस्तुल्यकर्तृकार्थादृष्टिमाने गम्ये धातोः सम्बन्धे णवा स्यात् । चेलकोपं वृष्टोमेघः ॥ ५८॥ गात्रपुरुषात्स्नः । ५।४। ५९। आभ्यां व्याप्याभ्यां पराजुल्यकर्तृकार्थात्स्नातेदृष्टिमाने गम्ये धातोः सम्बन्धे णम्बा स्यात् । गात्रस्नायं वृष्टः । पुरुषस्नायं वृष्टः ॥ ५९॥ शुष्कचूर्णरूक्षात्पिषस्तस्यैव ।५।४।६०॥ _ एभ्योव्याप्येभ्यः परात्पिपेर्णम्वा स्यात् तस्यैव धातोः सम्बन्धे । शुष्कपेष पिनष्टि । एवं चूर्णपेषम् । रूक्षपेषम् ॥ ६०॥ * कृग्ग्रहोऽकृतजीवात् । ५।४।६१ । आभ्यां व्याप्याभ्यां परायथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णम्वा स्यात् । अकृतकारं करोति । जीवग्राहं गृह्णाति ॥ ६१ ॥ निमूलात्कषः। ५।४।६२। निमूलाधाप्यात्परात्कषेस्तस्यैव सम्बन्धे णम्वा स्यात् । निमूलकार्ष कषति । निमूलस्य काषं कषति ॥६२॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy