SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ हेम शब्दानुशासनस्य : परावरे । ५ । ४ । ४५ । परे अवरे च गम्ये क्त्वा वा स्यात् । अतिक्रम्य नदीं गिरिः । अप्राप्य नदीं गिरिः । नद्यतिक्रमणे गिरिः । नद्यप्राप्त्या गिरिः ॥ ४५ ॥ निमील्यादि मेङस्तुल्यकर्तृके । ५ । ४ । ४६ । ३४८ तुल्यो धात्वर्थान्तरेण कर्त्ता यस्य तद्वृत्तिभ्योनिमील्या दिभ्यो मेङश्वः धातोः सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निर्माल्य हसति । मुखं व्यादाय स्वपिति । अपमित्य याचते । पक्षे | अपमातुं याचते । तुल्यकर्तृक इति किम् । चैत्रस्याक्षिनिमीलने मैत्रोहसति ॥ ४६ ॥ प्राक्काले । ५ । ४ । ४७। परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे त्वा वा स्यात् । आसित्वा भुङ्क्ते । आस्यते भोक्तुम् । प्राक्काल इति किम । भुज्यते पीयते वा ॥ ४७ ॥ aणम्, चाभीक्ष्ये ।५।४।४८ । आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे ख्णम्, क्त्वा च स्यात् । भोजंभोजं याति । भुक्त्वाभुक्त्वा याति ॥ ४८॥ पूर्वाग्रे प्रथमे । ५ । ४ । ४९ । एपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे ख्णस्, वा स्यात् । पूर्वं भोजं याति । पूर्वभुक्त्वा याति । एवमग्रे भोजम् । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्व भुज्यते ततोयाति ॥ ४९ ॥ अन्यथैवकथमित्थमः कृगोऽनर्थकात । ५।४। ५० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy