________________
स्वीपज्ञलघुवृत्तिः।
५४७ तयुष्मदि। ५।४।४२। भृशाभीक्ष्ण्ये सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिवचनविषये हि स्वौ स्याताम् । यथाविधि धातोःसंबन्धे यतएवधातोर्यस्मिन्नेव कारके हि खौ तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगेसति, तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि स्वौ च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि । अधीषाधीष्वेत्येवायमधीते इत्यादि । लुनीतलुनीतेत्येवं यूयं लुनीथ। लुनीहि लुनीहीत्येवं यूयं लुनीथ। अधीनमधीधमित्येवं यूयमवीधे अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधीति किम् । लुनीहि लुनीहीत्येवायं लुनाति छिनत्ति लूयते वेति धातोः संबन्धेमाभूत्॥ प्रचये नवा सामान्यार्थस्य । ५।४।४३।
धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि स्वौ तध्वमौ च तद्युष्मदि वा स्याताम्। व्रीहीन वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे । ब्रीहीन वपति लुनाति पुनाति इत्येवं यतते यत्यते वा। सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते पठ्यते वा। पक्षे। सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवमधीते पठ्यते वा। ब्रीहीन वपत लुनीत पुनीतेत्येवं यतद्धे । ब्रीहीन वप लुनीहि पुनीहीत्येवं चेष्टध्ये । पक्षे। व्रीहीन वपथ लुनीथ पुनीथेत्येवं यतध्वे । सूत्रमधीध्वं नियुक्तिमधीवं भाष्यमधींधमित्येवमधीधे। सूत्रमधीष्व नियुक्तिमधीष्य माध्यमधीष्वेत्येवमधीध्वे । पक्षे। सूत्रमधीध्वे नियुक्तिमधीवे भाष्यमधीधे इत्येवमधीधे । सामान्यार्थस्येति किम् । व्रीहीन वप लुनीहि पुनीहि इत्येवं वपति लुनाति पुनातीति मामूत् ॥ ४३ ॥ निषधेऽलखल्वाः क्त्वा ।५।४।४४ ।
निषेधार्थयोरलंखल्बोरुपपदयोर्धातोः क्त्वा वा स्यात् । अलंकृत्वा। खलुकृत्वा । पक्षे । अलं मंदितेन ॥ ४४॥