SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनंस्प शक्तार्हे कृत्याश्च । ५ । ४ । ३५ । शक्तेऽर्हे च कर्त्तरि गम्ये कृत्याः सप्तमीच स्युः । भवता खलु भारो वाह्यः । उह्येत । भवान् भारं वहेत्। भवान् हि शक्तः। भवता खलु कन्या वोढव्या । उह्येत । भवान् खलु कन्यां वहेत् । भवानेतदर्हति ॥ ३५ ॥ णिन्वाऽवश्यकाधर्मण्ये | ५ |४ | ३६ | ३४६ अनयोर्गम्ययोः कर्त्तरि वाच्ये णिन् कृत्याश्च स्युः । अवश्यंकारी । अवयंहारी । अवश्यंगेयो गीतस्य । शतंदायी । गेयोगाथानाम् ॥ ३६ ॥ अर्ह तृच् । ५ । ४ । ३७। अर्हे कर्त्तरि वाच्ये तृच् स्यात् । भवान् कन्याया वोढा ॥ ३७ ॥ आशिष्याशीः पञ्चम्यौ । ५ । । ४। ३८ । आशीर्विशिष्टार्थादाशीःपञ्चम्यौ स्याताम् । जीयात् । जयतात् । आशिषीति किम् । चिरञ्जीवति मैत्रः ॥ ३८ ॥ माङयद्यतनी । ५ । ४ । ३९ । माङि उपपदेऽद्यतनी स्यात् । माकार्षीत् ॥ ३९ ॥ सस्मे ह्यस्तनी च । ५ । ४ । ४० । स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी च स्यात् । मास्मकरोत् । मास्मकार्षीत् ॥ ४० ॥ धातोः सम्बन्धे प्रत्ययाः । ५ । ४ । ४१ । धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सत्ययथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । गोमानासीत् ॥ ४१ ॥ भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौच-..
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy