SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४६ स्थोषज्ञलघुवृत्ति प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ।५।४।२९।, "प्रैषादिविशिष्टे कर्नादावर्थे कृत्याः पञ्चमी च स्युः।न्यत्कारपूर्विका प्रेरणा प्रेषः । भवता खलु कटः कार्यः । भवान कटं करोतु । भवान हिप्रेषितः अनुज्ञातः, भवतोऽवसरः कटकरणे ॥२९॥ सप्तमीचोर्द्धमौहर्तिके।५।४।३०। - प्रैषादिषु गम्येषु ऊर्द्धमौहूर्तिकेऽर्थे वर्तमानात्सप्तमी कृत्यपञ्चम्यौ च स्युः। ऊर्द्ध मुहूर्त्तात् कटं कुर्यात् भवान् । भवता कटः कार्यः। कटं करोतु भवान् । भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे ॥ स्मे पञ्चमी । ५।४।३१ । स्मे उपपदे प्रैषादिषु गम्येषु ऊर्द्धमौहूर्तिकार्थाद्धातोः पञ्चमी स्यात् । ऊर्द्ध मुहूर्तात् भवान कटं करोतुस्म । भवान हि प्रेषितोऽनुज्ञातो भवतो ऽवसरः कटकरणे ॥ ३१॥ ' अधीष्टौ । ५।४।३२ । स्मे उपपदे ऽध्येषणायां गम्यायां पञ्चमी स्यात् । अगस्म विद्वन्नणुव्रतानि रक्ष ॥ ३२॥ कालवेलासमये तुम्वाऽवसरे ।५।४।३३। __एखूपपदेष्ववसरे गम्ये धातोस्तुम्बा स्यात् । कालोभोक्तुम् । वेलामोतुम् । समयोभोक्तुम्। पक्षे। कालोभोक्तव्यस्य । अवसर इति किम् । कालः पचति भूतानि ॥ ३३ ॥ सप्तमी यदि । ५।४।३४। यच्छब्दप्रयोगे कालाद्विषूपपदेषु सप्तमी स्यात् । कालो यदधीयीत भवान् । वेला यजुञ्जीत । समयो यच्छयीत ॥ ३४॥.... ४४
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy