________________
३४४
हैम शब्दानुशासनस्य
मोक्ष्यते अमुक अमुक्त वा । अयदीति किम् । सम्भावयामि यद्भुञ्जीत भवान् । श्रद्धाधाताविति किम् । अपि शिरसा पर्वतं भिन्द्यात् ॥ २३ ॥ सतीच्छार्थात् । ५ । ४ । २४ ।
सदर्थादिच्छार्थात्सप्तमी वा स्यात् । इच्छेत् । इच्छति ॥ २४ ॥
वर्त्स्यति हेतुफले । ५ । ४ । २५ ।
हेतुभूते फलभूते च वत्स्यैत्यर्थे वर्त्तमानात्सप्तमी वा स्यात् । यदिगुरूनुपासीत शास्त्रान्तं गच्छेत् । यदिगुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते । वस्तीति किम् । दक्षिणेन चेद्याति न शकटं पर्याभवति ॥ कामोक्तावकच्चिति । ५ । ४ । २६ ।
इच्छाप्रवेदनगम्ये सप्तमी स्यात् नतुकञ्चित्प्रयोगे । कामो मे भुञ्जीत भवान् । अकञ्चितीति किम् । कच्चिजीवति मे माता ॥ २६ ॥
इच्छार्थे सप्तमीपञ्चम्यौ । ५।४।२७।
इच्छा धातावुपपदे कामोक्तौ गम्यायां सप्तमीपञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत । भुङ्क्तां वा भवान् ॥ २७ ॥
विधिनिमन्त्रणामन्त्रणाऽधीष्टसम्प्रश्न
प्रार्थने । ५।४।२८।
'विष्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु सप्तमीपञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा । कटं कुर्यात् । करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् । द्विसन्ध्यमावश्यकं कुर्यात् । करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम्। इहासीत । आस्ताम् । प्रेरणैव सत्कारपूर्विका अधिष्टम् । व्रतं रक्षेत् । रक्षतु । संप्रश्नः संप्रधारणा । किं नु खलु भो व्याकरणमधीयीय । अध्ययै । उत सिद्धान्तमधीयीय । अध्ययै । प्रार्थनं याच्ञा । प्रार्थना मे तर्कमधीयीय । अध्ययै ॥ २८ ॥