________________
स्वोपज्ञलघुवृत्तिः ।
३४३
एषूपपदेष्व श्रद्धामर्षयोः सप्तमी स्यात् । न श्रद्दधे न क्षमे जातु तत्रभवान् सुरां पिबेत् । एवं यत् यदा यदि सुरां पिबेत् ॥ १७ ॥
क्षेपे च यच्चयत्रे । ५ । ४ ।
१८ ।
यच्चयत्रयोरुपपदयोः क्षेपेऽश्रद्धामर्षयोश्च गम्ययोः सप्तमी स्यात् । घिग्गर्हाम यच्च यत्र वा तत्र भवानस्माना कोशेत् । न श्रद्दधे न क्षमे यच्च यत्र वा तत्र भवान्परिवादं कथयेत् ॥ १८ ॥ चित्रे । ५ । ४ । १९ ।
आश्चर्ये गम्ये यच्चयत्रयोरुपपदयोः सप्तमी स्यात् । चित्रमाश्वर्यं यच्च यत्र वा तत्रभवानकल्प्यं सेवेत ॥ १९ ॥
शेषे भविष्यन्त्ययदौ । ५ । ४ । २० ।
यञ्चयत्राभ्यामन्यस्मिन्नुपपदं चित्रे गम्ये भविष्यन्ती स्यात् नतु यदिशब्दे । चित्रमाश्चर्यमन्धोनाम गिरिमारोक्ष्यति । शेष इति किम् । यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् । चित्रं यदि स भुञ्जीत ॥ २० ॥ । ५ । ४ । २१ ।
सप्तम्युताप्यो
बादार्थयोरुताप्योरुपपदयोः सप्तमी स्यात् । उतापि वा कुर्यात् । बाढे इति किम् । उत दण्डः पतिष्यति अपिधास्यति द्वारम् ॥ २१ ॥
सम्भावनेऽलमर्थे तदर्थानुक्तौ | ५ |४ |२२|
अलमोर्थे शक्तौ यत्सम्भावनं तस्मिन्गम्येऽलमर्थार्थस्याप्रयोगे सप्तमी स्यात् । अपिमासमुपवसेत् । अलमर्थ इति किम् । निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् । शक्तश्चैत्रो धर्मं करिष्यति ॥
अयदि श्रद्धाधातौ नवा । ५ । ४ । २३ ।
संभावनार्थे धातावुपपदे ऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् नतु यत् शब्दे । श्रधे संभावयामि भुञ्जीत भवान् । पक्षे ।