________________
३४२
हैमशब्दानुशासनस्य
क्षेपेगम्येऽपिजात्वोरुपपदयोर्धातोर्वर्त्तमाना स्यात् । अपितत्रभवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, धिग्गहीमहे ॥ १२ ॥ कथमिसप्तमीच वा । ५ । ४ । १३ ।
कथं शब्दे उपपदे क्षेपे गये धातोः सप्तमी वर्त्तमाना च वा स्यात् । कथं नाम तत्रभवान् मांसं भक्षयेत्, भक्षयति वा, गर्हामहे अन्याय्यमेतत् । पक्षे । अबमक्षत् । अभक्षयत् । भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्र सप्तमी निमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तत्र भवान्मांसमभक्षयिष्यत् । पक्षे यथा प्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । कथंनाम तत्रभवान्मांसमभक्षयिष्यत् ॥ १३ ॥
किंवृत्ते सप्तमीभविष्यन्त्यौ । ५।४।१४ |
किंवृत्ते उपपदे क्षेपे गये धातोः सप्तमीभविष्यन्त्यौ स्याताम् । किं तत्रभवाननृतं ब्रूयाद्वक्ष्यति वा । कोनाम कतरोनाम कतमोनाम यस्मै तत्रभवाननृतं ब्रूयात् वक्ष्यति वा ॥ १४ ॥
अश्रद्धामर्षेऽन्यत्रापि । ५ । ४ । १५ ।
किंवृत्ते किंवृत्ते चोपपदे अश्रद्धामर्षयोर्गम्ययोः सप्तमीभविष्यन्त्यौ स्याताम् । श्रद्दधे न सम्भावयामि तत्र भवान्नामादत्तं गृह्णीयात् । गृह्णीष्यति वा । न श्रद्दधे किं तत्रभवानदत्तमाददीत । आदास्यते वा । न मर्षयामि न क्षमे तत्रभवान्नामादत्तं गृह्णीयात्, ग्रहिष्यति वा ॥ १५ ॥
किंकिलास्त्यर्थयोर्भविष्यन्ती | ५ |४|१६|
किंकिंलेऽस्त्यर्थे चोपपदेऽश्रद्धामर्षयोर्गम्ययोर्भविष्यन्ती स्यात् । न श्रद्दधे न मर्षयामि किंकिलनाम तत्रभवान्परदारानुपकरिष्यते । न श्रद्दधे न मर्षयामि अस्तिनाम भवतिनाम तत्रभवान्परदारानुपकरिष्यते ॥
जायदादौ सप्तमी । ५।४।१७।