SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । ३४१ करिष्यामः । अनहोरात्राणामिति किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ताद् द्विरध्येतास्महे ॥ ७ ॥ परे वा । ५।४ । ८। कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परेभागे Sनहोरात्र - सम्बन्धिनि य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतन विहितः प्रत्ययो वा न स्यात् । आगामिनोवत्सरस्याग्रहायण्याः परस्ताद् द्विः सूत्रमध्येष्यामहे । अध्येतास्महे वा ॥ ८ ॥ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः । ५ । ४ । ९। सप्तम्या अथनिमित्तं हेतुफलकथनादिसामग्री, कुतश्चिद्वैगुण्याक्रियायाऽनभिनिवृतौ क्रियातिपत्तौसत्यामेष्यदर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् ॥९॥ भूते । ५ । ४ । १० । भूतार्थाद्धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दृष्टोमयात पुत्रोऽन्नार्थी चङ्क्रम्यमाणः । अपरश्चातिथ्यर्थी यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत । अप्यभोक्ष्यत ॥ १० ॥ वोतात्प्राक् । ५ । ४ । ११ । सप्तम्युताप्योर्बादइत्यत्र यदुतशब्दसंकीर्त्तनं ततः प्राक् सप्तम्यर्थे क्रियातिपतौ भूतार्थाद्धातोर्वा क्रियातिपत्तिः स्यात् । कथं नाम संयतः सन्ननागाढे तत्र भवानाधाय कृतमसेविष्यत धिग्गहीमहे । पक्षे । कथं सेवेत । कथं सेवते धिग्गहीमहे। उतात्प्रागिति किम् । कालोयदभोक्ष्यत भवान् ||११|| क्षेपेऽपिजात्वोर्वर्त्तमाना । ५ । ४ । १२ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy