SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य क्षिप्रार्थाशंसार्थयोरुपपदयोराशंस्यार्थाद्धातोर्यथासङ्ख्यं भविष्यन्ती सप्तम्यौ स्याताम् । उपाध्यायश्वेदागच्छति । आगमत् । आगमिष्यति । आगन्ता । क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे । उपाध्यायचेदागच्छति । आगमत् । आगमिष्यति । आगन्ता वा । आशंसे संभावये युक्तो ऽधीयीय ॥ सम्भावने सिद्धवत् । ५ । ४ । ४ । हेतोः शक्तिश्रद्धानं सम्भावनं, तस्मिन्विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः। समयेचेत्प्रयत्त्रोऽभूदुदभूवन्विभूतयः ॥ ४ ॥ नानद्यतनः प्रबन्धासत्त्योः । ५ । ४ । ५। ३४० धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतन विहितः प्रत्ययो न स्यात् । यावज्जीवं भृशमन्नमदात् । दास्यति वा । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्त्तिष्ट । येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रवर्त्तिष्यते ॥ ५ ॥ एष्यत्यवधौ देशस्यार्वाग्भागे | ५ | ४ | ३ | देशस्ययोsवधिस्तदाचिन्युपपदे देशस्यैवावग्भागे यएष्यन्नर्थस्तदृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वागन्तव्य आशत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् । यो ऽयमध्वा अतिक्रान्त आशत्रुञ्जयात्तस्ययदवरं वलम्यास्तत्र युक्ताद् द्विरध्येमहि । अवधाविति किम् । योयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अवग्भाग इति किम् । योयमध्यागन्तव्य आशत्रुञ्जयात्तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे ॥६॥ कालस्यानहोरात्राणाम् । ५ । ४ । ७ । कालस्य योऽवधिस्तद्वाचिन्युपपदे का तस्यैवार्वाग्भागे य एष्यन्नर्थस्तवृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात्, नचेत्सोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरः तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy