________________
-स्वोपज्ञलधुवृत्तिः। कृच्छ्राकृछ्रार्थदुःस्वीषत्पूर्वेभ्य एभ्य आदन्ताच धातोरनः स्यात् । दुःशासनः । सुशासनः । ईषच्छाशनः । एवं दुर्योधनः । सुयोधनः । ईषद्योधनः । दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः । दुरुत्थानम् ।। १४१॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दा नुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य तृतीयः पादः समाप्तः ॥
अहम् सत्सामीप्ये सद्वद्वा ।५।४।१।
समीपमेव सामीप्यं, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमा. नाद्धातावर्त्तमाना इव प्रत्ययावा स्युः। कदा चैत्रागतोसि।अयमागच्छामि। आगच्छन्तमेव मां विद्धि । पक्षे । अयमागमम् । एषोऽस्म्यागतः। कदा चैत्र गमिष्यसि । एष गच्छामि। गच्छन्तमेव मां विद्धि । पक्ष । एष गमिष्यामि।गन्तास्मि । गमिष्यन्तमेव मां विद्धि ॥ १॥
भंतवच्चाशंस्ये वा।५।४।२।
अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः, तदर्थी द्धातो तवत्सद्धच्च प्रत्यया वा स्युः । उपाध्यायश्चेदागमत् । एते तर्कमध्य. गीष्महे । उपाध्यायश्वेदागच्छति । एते तर्कमधीमहे । पक्षे । उपाध्यायश्चेदागमिष्यत्यागन्ता वा । एते तर्कमध्येष्यामहे । अध्येतास्महे वा । आशंस्य इति किम् । उपाध्याय आगमिष्यति। तर्कमध्येष्यते मैत्रः ॥ २॥ क्षिप्राशंसार्थयोभविष्यन्तीसप्त
म्यौ । ५।४।३।