________________
हेमशब्दानुशासनस्य
उत्पूर्वादञ्चः पुन्नाम्नि करणाधारयोर्घञ् स्यात्, नचेत्तोयविषयो - धात्वर्थः । तैलोदङ्कः । अतोय इति किम् । उदकोदञ्चनः ॥ १३५ ॥ आनायो जालम् । ५ । ३ । १३६ ।
आङ्पूर्वान्नियः कारणाधारे पुन्नाम्नि जालेऽर्थे घञ् स्यात् । आनायो मत्स्यानाम् ॥ १३६ ॥
खनो डडरेकेकवकञ्च । ५ । ३ । १३७ ।
३३८
स्वनेः पुन्नाम्नि करणाधारयोरेते घञ्च स्युः । आखः । आखरः । आखनिकः । आखनिकवकः । आखनः । आखानः ॥ ३७ ॥
इकिस्तिवस्वरूपार्थे । ५ । ३ । १३८ ।
धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः । क्रुधिः । वेत्तिः । अर्थे । यजेरङ्गानि । भुजिः क्रियते । पचतिः परिवर्त्तते ॥ १३८ ॥
दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल | ५|३|१३९ ।
कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भयां पराद्धातोः खलू स्यात् । दुःशयम् । दुष्करः । सुशयम् । सुकरः । ईषच्छयम् । ईषत्करः । कृच्छ्राकृच्छ्रार्थ इति किम् । ईषल्लभ्यं धनम् ॥ १३९ ॥ च्व्यर्थे कर्त्राप्याद् भूकृगः । ५ । ३ । १४० ।
कृच्छ्राकृच्छ्रार्थेभ्यो दुःखीषद्द्भ्यः पराभ्यां च्व्यर्थवृत्तिकर्तृकर्मवा चिभ्यां यथासङ्ख्यं भुक्कराभ्यां परः खल स्यात् । दुरायंभवम् । स्वाढ्यंभवम् । इषदाढचंभवं भवता । दुराढ्यंकरः । स्वाढ्यंकरः । इषदाढयं करश्चैस्त्वया । व्यर्थ इति किम् । दुराढयेन भूयते ॥ १४० ॥
शासूयुधिदृशिधृषिपातोऽनः । ५ । ३ । १४१ |