SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलधुवृत्तिः। अनयोरर्थयोर्धातोरनट् स्यात् । एषणी । सक्तुधानी ॥ १२९ ॥ . पुन्नाम्नि घः।५।३।१३० । पुंसः संज्ञायां गम्यायां धातोः करणाधारयोर्घः स्यात् । दन्तच्छदः। आकरः । पुमिति किम् । विचयनी । नाम्नीति किम् । प्रहरणा दण्डः ॥ १३०॥ गोचरसंचरवहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम् ।५।३। १३१। एते करणाधारयोः पुन्नाम्नि घान्ता निपात्यन्ते । गोचरः। संचरः। वहः । व्रजः । व्यजः । खलः । आपणः । निगमः । बकः । बाहुलकाकर्तरि भगः। बाहुलकाद्भगम् । कषः। आकषः । निकषः ॥१३१॥ व्य ञ्जनाद् घन् । ५।३।१३२ । व्यञ्जनान्ताद्धातोः पुन्नाम्नि करणाधारयोर्घा स्यात् । वेदः॥१३२॥ अवात्तस्तृभ्याम् ।५।३।१३३ । आभ्यामवपूर्वाभ्यां करणाधारयोः पुन्नाम्नि घञ् स्यात् । अवतारः । अवस्तारः ॥ १३३ ॥ न्यायावायाध्यायोद्यावसंहारावहाराधार दारजारम् । ५।३।१३४ । एते पुन्नाम्नि करणाधारयोर्धचन्ता निपात्यन्ते । न्यायः । अवायः। अध्यायः । उद्यावः । संहारः । अवहारः । आधारः । दाराः । जारः॥ १३४ ॥ उदको ऽतोये । ५।३।१३५। ४३
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy