SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य भावे । ५ । ३ । १२२ । धात्वर्थनिर्देशे स्त्रियां धातोर्णकः स्यात् । शायिका ॥ १२२ ॥ क्लीबे क्तः । ५ । ३ । १२३ । नपुंसके भावे धातोः क्तः स्यात् । हसितं तव । क्लीबे इति किम् । हासः ॥ १२३ ॥ ३३६ अनट् । ५ । ३ । १२४ । क्लीबे भावेऽर्थे धातोरनट् स्यात् । गमनम् ॥ १२४ ॥ यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः । ५ । २ । १२५ । येन कर्मणा संस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात्ततः पराद्धातोः क्लीबे भावे नद स्यात् । पयः पानं सुखम् । कर्मेति किम् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । कर्त्रेति किम् । शिष्येण गुरोः स्थापनं सुखम् । अङ्गेति किम् । पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् । कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥ १२५ ॥ रम्यादिभ्यः कर्त्तरि । ५। ३ । १२६ । एभ्यः कर्त्तरि अनद् स्यात् । रमणी । कमनी ॥ १२६ ॥ कारणम् । ५ । ३ । १२७ । कृगः कर्त्तर्यन द्धिश्च स्यात् । कारणम् ॥ १२७ ॥ भुजिपत्यादिभ्यः कर्मापादाने । ५ । ३ । १२८ । भुज्यादेः कर्म्मणि पत्यादेश्वापादानेऽनट् स्यात् । भोजनम् । निरदनम् । प्रपतनः । अपादानम् ॥ १२८ ॥ करणाधारे । ५ । ३ । १२९ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy