SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ३३५ एभ्यः स्त्रियां मावाकोंः क्विय् वा स्यात् । भीः । भीतिः । ही। हीतिः ॥११५॥ व्यतिहारे ऽनीहादिभ्यो नः।५।३।११६। व्यतीहारविषयेभ्य ईहादिवर्जेभ्योधातुभ्यः स्त्रियां अः स्यात् बाहुलकाद्भावे । व्यावक्रोशी । अर्नाहादिभ्य इति किम् । व्यतीहा । व्यतीक्षा॥ ११६ ॥ नमोऽनिःशापे।५।३।११७। नञः पराद्धातोः शापेगम्ये मावाकोंः स्त्रियामनिः स्यात् । अजननिस्ते भूयात् । शाप इति किम् । अकृतिः पटस्य ॥ ११७ ॥ ग्लाहाज्यः । ५।३।११८ । एभ्यः स्त्रियां भावाकोंरनिः स्यात् । ग्लानिः। हानिः।ज्यानिः।। प्रश्नाख्याने वेळ । ५।३।११९ । प्रश्ने आख्यानेच गम्ये स्त्रियां भावाकोंर्धातोरि वा स्यात् । कां कारिं, कारिका, क्रियां, कृत्यां, कृति, वा अकार्षीः। सर्वां कारिं, कारिका, कियां, कृत्यां, कृति, वा अकार्षम् ॥ ११९ ॥ पर्यायाहर्णोत्पत्तौ च णकः ।५।३।१२०। एष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाक| तोर्णकः स्यात् । भवतः आसिका । भवतः शायिका । अर्हसि त्वमिक्षुभक्षिकाम । क्षणे इक्षुभक्षिकां मे धारयसि । इक्षुमक्षिका उदपादि । कां कारिकामकार्षीः। सर्वां कारिकामकार्षम् ॥ १२० ॥ नाम्नि पुंसि च । ५।३।१२१ । धातोः परो भावाकोः स्त्रियां संज्ञायां णकः स्यात् यथालक्ष्य पुंसि च । प्रच्छर्दिका । शालभञ्जिका । अरोचकः ॥१२१॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy