SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ हेम शब्दानुशासनस्य एते भावाकत्रः स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते । भिदा । छिदा ॥ १०८ ॥ ३३४ भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितौलिदोलिभ्यः । ५ । ३ । १०९ । एभ्योण्यन्तेभ्यः स्त्रियां भावाकर्त्रीरङ् स्यात् । भीषा । भूषा । चिन्ता । पूजा | कथा | कुम्बा | चर्चा । स्पृहा । तोला । दोला ॥ १०९ ॥ उपसर्गादातः । ५ । ३ । ११० । उपसर्गपूर्वादादन्तात् स्त्रियां भावाकर्त्रीरङ् स्यात् । उपदा । उपसर्गादिति किम् । दत्तिः ॥ ११० ॥ णिवेत्त्यासश्रन्थघट्टवन्देरनः । ५ । ३ । १११ । ण्यन्तादेत्यादिभ्यश्च स्त्रियां भावाकरनः स्यात् । कारणा । वेदना | आसना । श्रन्थना । घट्टना । वन्दना ॥ १११ ॥ इषोऽनिच्छायाम् । ५ । ३ । ११२ । अनिच्छार्थादिषेः स्त्रियां भावाकरनः स्यात् । अन्वेषणा | अनिच्छायामिति किम् । इष्टिः ॥ ११२ ॥ पर्यर्वा । ५ । ३ । ११३ । आभ्यां परादनिच्छार्थादिषेर्भावाकत्रः स्त्रियामनो वा स्यात् । पर्येषणा । परीष्टिः । अध्येष्यणा | अधीष्टिः ॥ ११३ ॥ कुत्संपदादिभ्यः क्विप् । ५ । ३ । ११४ । क्रुधादिभ्योऽनुपसर्गेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यः स्त्रियां भावाकः किप् स्यात् । क्रुत् । युत् । संपत् । विपत् ॥ ११४ ॥ भ्यादिभ्यो वा । ५ । ३ । ११५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy