SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः मृगयेच्छायाच्ञातृष्णाकृपाभाश्रद्धाऽन्तर्द्धा । ५ । ३ । १०१ । ३३३ एते स्त्रियां निपात्यन्ते ॥ १०१ ॥ परेः सूचरेर्यः । ५ । ३ । १०२ । परिपूर्वाभ्यामाभ्यां भावाकत्रः स्त्रियां यः स्यात् । परिसर्या । परिचर्या ॥ १०२ ॥ वाऽटाट्यात् । ५ । ३ । १०३ । अटेर्यङन्तात् स्त्रियां भावाकत्रयों वा स्यात् । अटाट्या । अटाटा १०३ ॥ जागुरश्च । ५ । ३ । १०४ । जागुः स्त्रियां भावाकर्त्रीरोयश्च स्यात् । जागरा । जागर्या ॥१०४॥ शंसि प्रत्ययात् । ५ । ३ । १०५ । शंसेः प्रत्ययान्तात् च भावाकर्त्रीः स्त्रियामः स्यात् । प्रशंसा । गोपाया ।। १०५ ॥ केटोगुरोर्व्यञ्जनात् । ५ । ३ । १०६ । क्तस्येद्यस्मात् ततोगुरुमतोव्यञ्जनान्ताद्धातोर्भावाकत्रः स्त्रियामः स्यात् । ईहा । केट इति किम् । खस्तिः । गुरोरिति किम् । स्फूर्त्तिः । व्यञ्जनादिति किम् । संशीतिः ॥ १०६ ॥ षितोऽङ् । ५ । ३ । १०७ । षितोधातोर्भावाकर्त्रीः स्त्रियामङ् स्यात् । पचा ॥ १०७॥ भिदादयः । ५ । ३ । १०८ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy