SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य वाष्टन आः स्यादौ । १ । ४।५२। अष्टनः स्यादौ परे आवा स्यात् । अष्टाभिः अष्टभिः । त्रियाष्टाः प्रियाष्टा ॥ ५२ ॥ अष्ट और्जसशसोः । १।४।५३ । ३२ अष्टनः कृतात्वस्य जस्शसोरौः स्यात् । अष्टौ । अष्टौ ॥ ५३ ॥ इति ष्णः संख्याया लुप |१| ४|५४ । इति षनान्तानाम् संख्यानाम् जस्शसोर्लुप् स्यात् । कति । कति । षट् । षट् । पञ्च । पञ्च ॥ ५४ ॥ नपुंसकस्य शि: । १ । ४।५५ । नपुंसकस्य जस्सोः शिः स्यात् । कुण्डानि । पयांसि ॥ ५५ ॥ औरीः । १ । ४ । ५६ । नपुंसकस्य औरीः स्यात् । कुण्डे । पयसी ।। ५६ ।। अतः स्यमोऽम् । १ । ४।५७। अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम् । हे कुण्ड ।। ५७ ।। पञ्चतोऽन्यादेरनेकतरस्य दः | १|४|५८ । पञ्चपरिमाणस्य नपुंसकस्यान्यादेः स्यमोर्दः स्यात् । एकतरवर्जम् । अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । अनेकतरस्येति किम् । एकतरम् ॥ ५८ ॥ अनतो लुप ।९।४।५९ । अनकारान्तस्य नपुंसकस्य स्यमोर्लुप् स्यात् । कर्तृ । पयः ॥ ५९ ॥ जरसो वा । १ । ४ । ६० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy