________________
स्वोपज्ञलघुपत्तिः दीर्घड्याबव्यञ्जनात्सेः।१।४।४५।
दीर्घड्याबन्ताभ्याम् व्यञ्जनाच परस्य से क् स्यात् । नदी। माला। राजा । दीतिकिम् । निष्कौशाम्बिः । अतिखट्वः॥४५॥
समानादमोऽतः।१।४।४६। समानात्परस्यामोऽस्य लुक् स्यात् । देवम् । मालाम् । मुनिम् । नदीम् । साधुम् । वधूम् ॥ १६ ॥ दीर्घानाम्यतिसृचतसृषः ।१।४। ४७।
तिसृ चतसृ षरान्त वर्जस्य समानस्य नामि परे दीर्घः स्यात् । वनानाम् । मुनीनाम् साधूनाम्। पितॄणाम् । अतिसृचतसृषु इतिकिम् । तिसृणाम्। चतसृणाम् । षण्णाम् । चतुर्णाम् ।। ४७॥
नुर्वा ।१।४।४८॥ नुः समानस्य नामि परे दीर्घो वा स्यात् । नृणाम् । नृणाम् ॥४८॥ शसोऽता सश्चनः पुंसि ।१।४।४९।
शसो ता सह पूर्वसमानस्य दीर्घः स्यात् । तत्सन्नियोगे च पुंसि शसः सो नः। देवान् । मुनीन् । वातप्रमीन । साधून् । हूहून् । पितॄन् । पुंसीतिकिम् । शालाः ॥ ४९॥ संख्यासायवेरहस्याहन् ङौ वा ।१।४।५०॥
संख्यावाचिभ्यः सायविभ्याम् च परस्याह्नस्य डौ परेऽहन्वा स्यात् । यहनि यह्नि दयते । सायाहनि सायाह्नि सायाह्ने । व्यहनि व्यह्नि । व्यते ॥ ५॥
निय आम् ।१।४।५१। नियः परस्य डेराम स्यात् । नियाम् । ग्रामण्याम् ॥ ५१ ॥