________________
हैमशब्दानुशासनस्य
तृच् तृन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात् । कर्त्तारम् । कर्त्तारौ| कर्त्तारः । खसारम् । नप्तारम् । नेष्टारम् | त्वष्टारम् । क्षत्तारम् । होतारम । पोतारम् । प्रशास्तारम् । घुटीतिकिम् । कर्तृ कुलम् पश्य ॥३८॥ अर्कै च । १।४।३९॥
ऋतो ङौ घुटि च परे अर् स्यात् । नरि । नरम् ॥ ३९ ॥
मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्रये ॥ १।४।४०।
मातुरामन्त्रये पुत्रे वर्त्तमानस्य सिना सह मातः स्यात् । अहें प्रशंसायाम | हे गार्गीमात । पुत्रइतिकिम् । हेमातः हेगार्गीमातृके वत्से । अर्हइति किम् । अरेगार्गीमातृक ॥ ४० ॥
ह्रस्वस्य गुणः । १ । ४ । ४१ ।
आमन्त्र्यार्थवृत्तेर्हस्वान्तस्य सिना सह गुणः स्यात् । हे पितः । हेमुने ॥ ४१ ॥
एदापः । १ । ४ । ४२ ।
आमन्त्र्यार्थवृत्तेराबन्तस्य सिनासहैकारः स्यात् । हेमाले । हेब - हुराजे ॥ ४२ ॥
नित्य दिद्द्विस्वराम्बार्थस्य ह्रस्वः । १।४।४३ ।
नित्यम् दिदै दास दास् दामादेशा येभ्यस्तेषाम् द्विस्वराम्बा - र्थानाम् चाबन्तानामामन्त्र्यवृत्तीनाम् सिना सह ह्रस्वः स्यात् । हेस्त्रि | लक्ष्मि । व । वधु । हेअम्ब । हेअक । नित्यदिदितिकिम् । हेहूहूः । द्विस्रेति किम् | अम्बाडे | आप इत्येव | हेमातः ॥ ४३ ॥ अदेतः स्यमोर्लुक् । १ । ४। ४४ ।
अदन्तादेदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हेदेव । हे उपकुम्भ । हेअति ॥ ४४ ॥