________________
३२८
हैमशब्दानुशासनस्य
परिपूर्वान्नियोद्यूतविषयार्थाद्भावाकर्घ स्यात् । परिणायेन रीन् हन्ति । द्यत इति किम् । परिणयोऽस्याः || ६३॥
भुवोऽवज्ञाने वा । ५ । ३ । ६४ । परिपूर्वात् भुवोऽवज्ञानार्थात् भावाकत्रज्ञ स्यात् वा । भावः । परिभवः । अवज्ञान इति किम् । समन्ताद्भूतिः परिभवः ॥ यज्ञे ग्रहः । ५ । ३ । ६५ ।
परिपूर्वाद् ग्रहेर्यज्ञविषये भावाकर्घञ् स्यात् । पूर्वपरियाहः । यज्ञ इति किम् । परिग्रहोऽर्थस्य ॥ ६५ ॥
संस्तोः । ५ । ३ । ६६ ।
संपूर्वीत्स्तोभवाकर्घञ् स्यात् यज्ञविषये । संस्तावः छन्दो
गानाम् ।। ६६ ।।
प्रात् स्नुदुस्तोः । ५ । ३ । ६७ । प्रात परेभ्य एभ्यो भावाकत्रोर्घञ् स्यात् । प्रस्नावः । प्रद्रावः । प्रस्तावः ॥ ६७ ॥
अयज्ञे स्त्रः । ५ । ३ । ६८ ।
प्रपूर्वात्स्त्रोभावाकर्घञ् स्यात् नचेद्यज्ञविषयः । प्रस्तारः । अयज्ञइति किम् । बर्हिष्प्रस्तरः ॥ ६८ ॥
वेरशब्दे प्रथने । ५ । ३ । ६९ ।
वेः परात्स्त्रोऽशब्दविषये विस्तीर्णत्वेऽर्थे घञ् स्यात् । विस्तारः पटस्य । प्रथन इति किम् । तृणस्य विस्तरः । अशब्द इति किम् । वाक्यवि
स्तरः ॥ ६९॥
छन्दोनाम्नि । ५ । ३ । ७० ।