SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ हैपशब्दानुशासनस्य एभ्योऽनुपसर्गेभ्योभावाकोरल स्यात् । व्यधः । जपः। मदः ॥ । नवा वणयमहसस्वनः।५।३।४८ । अनुपसर्गेभ्य एभ्यो भावाकोरल् वा स्यात् । कगः । वाणः। यमः । यामः । हसः। हासः । स्वनः । स्वानः ॥४८॥ आङो रुप्लोः ।५।३। ४९ । आङ पराभ्यां रुप्लुभ्यां भावाकोरल वा स्यात् । आरवः । आरावः । आप्लवः । आप्लावः ॥ ४९॥ वर्षविघ्नेऽवाद् ग्रहः। ५।३।५० । अवपूर्वाद् अहेवर्षविघ्नेऽर्थे भावाकोरल वा स्यात् । अवग्रहः। अवपाहः । वर्षविघ्ने इति किम् । अवग्रहोऽर्थस्य ॥ ५० ॥ प्रादश्मितुलासूत्रे । ५।३।५१ । प्रपूर्वात् ग्रहेरश्मौ तुलासूत्रे चार्थे भावाकोरल् वा स्यात् । प्रग्रहः । प्रग्राहः ॥ ५१॥ वृगो वस्त्रे । ५।३।५२।। प्रपूट्टिगोवस्त्रविशेषेऽर्थे भावाकोरल वा स्यात् । प्रवरः । प्रावारः । वस्त्र इति किम् । प्रवरो यतिः ॥ ५२ ॥ उदः श्रेः।५।३। ५३ । उत्पूर्वाच्छ्रेर्भावाकोरल वा स्यात् । उच्छ्रयः । उच्छ्रायः॥ ५३॥ युपुद्रोर्घञ ।५।३।५४ । उत्पूर्वेभ्य एभ्यो भावाकोंर्घस्यात् । उद्यावः । उत्पावः । उद्रावः॥ - ग्रहः । ५।३।५५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy