SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । परेर्घः । ५ । ३ । ४० । परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते । परिघोऽर्गला ॥४०॥ हः समाहूयायौ द्यूतनाम्नोः । ५ । ३ । ४१ । ३२५ द्यूते नाम्नि चार्थे यथासङ्ख्यं समाङ्पूर्वादा पूर्वाच्च होल हयादेशश्च निपात्यते । समाह्वयः प्राणिद्यतम् । आह्वयः संज्ञा ॥ ४१ ॥ न्यभ्युपवेर्वाश्चत् । ५ । ३ । ४२ । एभ्यः परात् ह्वोभावाकरल स्यात्तद्योगे वा उश्च । निहवः । अभिहवः । उपहवः । विहवः ॥ ४२ ॥ आङो युद्धे । ५ । ३ । ४३ । आङोहोयुद्धेऽर्थे भावाकरल् स्यात् वा उश्च । आहवो युद्धम् । युद्ध इति किम् । आह्वायः ॥ ४३ ॥ आहावो निपानम् । ५ । ३ । ४४ । निपानं पश्वादिपानार्थो जलाधारः तस्मिन्नर्थे आङ् पूर्वात् होभावाकरल आहावादेशश्च निपात्यते । आहावो वीनाम् ॥ ४४ ॥ भावेऽनुपसर्गात् । ५ । ३ । ४५ । अनुपसर्गात् भावे ह्वोऽल स्यात् वा उश्च । हवः । भाव इति किम् । व्याप्ये ह्रायः । अनुपसर्गादिति किम् । आह्वायः ॥ ४५ ॥ हनो वा वधूच । ५ । ३ ४६। अनुपसर्गाद्धन्तेर्भावेऽल वा स्यात् तद्योगेच हनोवधू । वधः । घातः ॥ ४६ ॥ व्यधजपमद्भयः । ५ । ३ । ४७ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy