SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३२४ हैमशब्दानुशासनस्य अन्तः पूर्वाद्धन्तेरल घनघणादेशौ च निपात्येते देशेऽर्थे भावाकोंः । अन्तर्घनः । अन्तर्घणो वा देशः। अन्तर्घातोऽन्यः ॥ ३४ ॥ प्रघणप्रघाणौ गृहांशे ।५।३।३५। प्रपूर्वाद्धन्तेहांशेऽर्थेऽल् घणघाणादेशौ च निपात्येते । प्रघणः । प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥ ३५॥ निघोध्वसङ्घोध्वनाऽपधनोपघ्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम्।५।३।३६। हन्तेनिघादयो यथासङ्ख्यं निमिताद्यर्थेषु कृतघत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं निमितम् । निघा वृक्षाः । उध्धः प्रशस्तः । सङ्घः प्राणिसमूहः। अत्याधीयन्ते च्छेदनार्थ कुट्टनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उध्वनः । अपघनः शरीरावयवः । उपनः आसन्नः ॥३६॥ . मूर्तिनिचिताऽभ्रे घनः ।५।३।३७। हन्तर्मूल्दावर्थेऽलघनादेशश्च निपात्यते । मूर्तिः कादिन्यम् । अभ्रस्य घनः । निचितं निरन्तरम् । घनाः केशाः । अझं मेघः । घनः॥३७॥ व्ययोद्रोः करणे । ५।३।३८ । एभ्यः पराद्धन्तेः करणेऽल घनादेशश्च निपात्यते । विधनः। अयोघनः । द्रुधनः ॥ ३८॥ स्तम्बाद् घनश्च । ५।३। ३९ । स्तम्बात्पराद्धन्तेरल् नघनादेशौ च निपात्येते करणे । स्तम्बनो दण्डः । स्तम्बधनो यष्टिः ॥ ३९ ॥ ....
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy