SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । १२३ वीणायां भवो वैणः । तदर्थादुपसर्गपूर्वात्क्वणेर्भावाकरल्वा स्यात् । प्रक्वणः । प्रक्वाणो वीणायाः । वैण इति किम् । प्रक्वाणः शृङ्खलस्य ॥२७॥ युवर्णवृदृवशरणगमृग्रहः । ५ । ३ । २८ । इवर्णोवर्णान्तेभ्योत्रादेर्ऋदन्तेभ्यो ग्रहेव भावाकरल स्यात् । चयः । क्रयः । रवः । लवः । वरः । आदरः । वशः । रणः । गमः । कः । ग्रहः ।। २८ ।। वर्षादयः क्लीबे । ५ । ३ । २९ । एतेऽलन्ताः क्लीबे यथादर्शनं भावाकर्निपात्यन्ते । वर्षम् । भयम् ॥ 1 समुदोऽजः पशौ । ५ । ३ । ३० । . आभ्यां परादजः पशुविषयार्थवृत्तेर्भावाकरल् स्यात् । समजः पशूनाम् । उदजः पशूनाम् । पशाविति किम् । समाजो नृणाम् ॥ ३० ॥ सृग्लहः प्रजनाक्षे । ५ । ३ । ३१ । आभ्यां यथासङ्ख्यं प्रजनाक्षविषयार्थवृत्तिभ्यां भावाकरल स्यात् । गवामुपसरः । अक्षाणां ग्लहः । प्रजनाक्ष इति किम् । उपसारो भृत्यै राज्ञाम् ॥ ३१ ॥ पणेर्माने । ५ । ३ । ३२ । पणेर्मानार्थाद्भावाकरल स्यात् । मूलकपणः । मान इति किम् । पाणः ।। ३२ ॥ संमदप्रमदौ हर्षे । ५ । ३ । ३३ । एतौ भावाकर्षेऽर्थे ऽलन्तौ स्याताम् । संमदः प्रमदो वा स्त्रीणाम् । हर्ष इति किम् । संमादः । प्रमादः ॥ ३३ ॥ हनोऽन्तर्घनान्तर्घणौ देशे । ५ । ३ । ३४ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy