SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य श्रीभवाकरेष्वर्थेषु स्यात् । शारो वायुः वर्णो वा । नीशारः प्रावरणम् ॥ २० ॥ ३२२ निरभेः पूल्वः । ५ । ३ । २१ । निरभिभ्यां यथासङ्ख्यमाभ्यां भावाकर्त्रीर्घञ्स्यात् । निष्पावः । अभिलावः || २१ || रोरुपसर्गात् । ५ । ३ । २२ । उपसर्गपूर्वाद्रौते भी वा कर्त्रीर्घञ्स्यात् । संरावः ॥ २२ ॥ भूश्यदोऽल् । ५ । ३ । २३। एभ्य उपसर्गपूर्वेभ्यो भावाकरल् स्यात् । प्रभवः । संश्रयः । विघसः । उपसर्गादित्येव । भावः । श्रायः । घासः ॥ २३ ॥ न्यादो नवा । ५ । ३ । २४ । निपूर्वाददेरलि घस्लऽभावो ऽतो दीर्घश्व वा स्यात् । न्यादः । निघसः ॥ २४ ॥ संनिव्युपाद्यमः । ५ । ३ । २५ । एभ्य उपसर्गेभ्यः पराद्यमेर्भावाकरल् वा स्यात् । संयमः । संयामः। नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ।। २५ ।। नेर्नदगदपठस्वनक्वणः । ५ । ३ । २६ । निरुपसर्गात् परेभ्य एभ्यो भावाकर्त्रीरळ् वा स्यात् । निनदः। निनादः निगदः । निगादः । निपठः । निपाठः । निस्वनः । निस्वानः। निक्कणः । निक्वाणः ॥ २६॥ वैणे क्वणः । ५ । ३ । २७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy