SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वत्यदर्थाद्धातोस्तुमादयः स्युः । कर्तुम् । कारकः । करिष्यामीति वा याति । क्रियायामिति किम् । भिक्षिष्य इत्यस्य जटाः । क्रियार्थीयामिति किम् । धावतस्ते पतिष्यति वासः ॥ १३ ॥ ३२१ क्रियायां क्रियार्थायामुपपदे कर्म्मणः स्यात् । कुम्भकारो याति ॥ १४ ॥ कर्मणोऽण् । ५ । ३ । १४ । परादर्यदर्थाद्धातोरण भाववचनाः । ५ । ३ । १५ । भाववचना घञ्क्त्यादयः ते क्रियायां क्रियार्थायामुपपदे वत्र्त्स्यदर्थाद्धातोः स्युः । पाकाय, पक्तये, पचनाय, वायाति ॥ १५ ॥ पदरुजविशस्पृशौ घञ् । ५ । ३ । १६ । एभ्यो घञ् स्यात् । पादः । रोगः । वेशः । स्पर्शः ॥ १६ ॥ सर्त्तेः स्थिरव्याधिबलमत्स्ये । ५ । ३ । १७ ४१ सर्त्तरेषु कर्तृषु घञ स्यात् । सारः स्थिरः । अतीसारो व्याधिः । सारो बलम् । विसारो मत्स्यः ।। १७ ।। भावाऽकर्त्रीः । ५ । ३ । १८ । भावे कर्तृवर्जे च कारके धातोर्घञ् स्यात् । पाकः प्राकारः । दायो दत्तः ।। १८ ।। इङो ऽपादाने तु टिद्वा । ५ । ३ । १९ । इङो भावाकत्रोर्घञ् स्यात् सचापादाने वा टित् । अध्यायः । उपाध्यायी । उपाध्यायः ॥ १९ ॥ श्रोर्वायुवर्णनिवृत्ते । ५ । ३ । २० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy