SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २. हैमशन्दानुशासनस्य कदाको र्नवा । ५। ३। ८ । अनयोरुपपदयोर्वर्ण्यदर्थाद्धातोर्वर्तमाना वा स्यात् । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता । कर्हि भुङ्क्तं । कर्हि भोक्ष्यते। कर्हि भोक्ता॥ किंवृत्ते लिप्सायाम् । ५।३।९। विभक्तिडतरडतमान्तस्य किमो वृत्तं किंवृत्तं तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यमानायां वर्त्यदर्थाद्धातावर्त्तमाना वा स्यात् । को भवतां भिक्षां ददाति । दास्यति।दाता वा । एवं कतरः। कतमः । किंवृत्त इति किम् । भिक्षां दास्यति । लिप्सायामिति किम् । कः पुरं यास्यति ॥ ९ ॥ लिप्स्यसिद्धौ । ५।३।१०। लब्धुमिष्यमाणातादेः सिद्धौ फल वाप्तौ गम्यायां वर्त्यदर्थाद्धातोर्वर्त्तमाना वा स्यात् । योमिक्षां ददाति, दास्यति, दाता वा स खर्गलोकं याति, यास्यति याता वा ॥१०॥ पञ्चम्यर्थहेतौ । ५।३। ११ । पञ्चम्यर्थः प्रैषादिः तस्य हेतुरुपाध्यायागमनादिः तस्मिन्नर्थे वर्त्यति वर्तमानाद्धातोर्वर्तमाना वा स्यात्। उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा । अथ त्वं सूत्रमधीष्व ॥ ११॥ सप्तमी चोर्द्धमौहर्तिके । ५।३।१२। - उर्द्धमुहूर्ताद्भव और्द्धमौहर्तिकः तस्मिन्पञ्चम्यर्थहेतौ वय॑त्यर्थे वर्तमानाद्धातोः सप्तमी वर्तमाना च वा स्यात् । ऊर्द्धमुहूर्त्ताडपाध्यायश्चेदागच्छेत, आगच्छति, आगन्ता वा । अथ त्वं तर्कमधीष्व ॥ १२ ॥ क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ।५।३।१३।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy