SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 'स्वोपज्ञलघुवृत्तिः । अर्हम् वय॑तिगम्यादिः ।५।३।१। गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ताः साधवः स्युः । गमी प्रामम् । आगामी ॥ १ ॥ वा हेतुसिद्धौ क्तः। ५।३।२। वर्त्यदर्थाद्धातोर्धात्वर्थहेतोः सिद्धौ सत्यां तो वा स्यात् । मेघश्चेद् वृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शालयः ॥ २ ॥ कषोऽनिटः । ५।३।३। कषः कृच्छ्रगहनयोरनिदातोर्वर्त्यदर्थात् क्तः स्यात् । कष्टम् । कष्टादिशस्तमसा । अनिट इति किम् । कषिताः शत्रवः ॥३॥ भविष्यन्ती ।५।३।४। वर्त्यदर्थाद्धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ॥ ४ ॥ अनद्यतने श्वस्तनी । ५।३।५। नास्त्यद्यतनोयत्रतस्मिन् वय॑त्यर्थे वर्तमानाद्धातोः वस्तनी स्यात् । कर्ता । अनद्यतन इति किम् । अद्य श्वो वा गमिष्यति ॥ ५॥ परिदेवने । ५। ३।६। अनुशोचने गम्ये वर्त्यदर्थाद्धातोः श्वस्तनी स्यात् । इयं तु कदा गन्ता यैवं पादौ निधत्ते ॥ ६ ॥ पुरायावतोर्वर्त्तमाना। ५।३।७। अनयोरुपपदयोर्वर्त्यदर्थाद्धातोर्वर्त्तमाना स्यात् । पुरा भुङ्क्ते । यावडते ॥७॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy