SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३१४ हेमशम्दानुशासनस्य नहस्त्रट । ५।२।८८ । एभ्यः सदर्थेभ्यः करणे त्रद स्यात् । नेत्रम् । दात्रम् । शस्त्रम् । योत्रम्। योक्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्रम् । मेढूम् । पत्रम् । पात्री । नधी ॥ ८८॥ हलकोडास्ये पुवः । ५।२। ८९ । सदर्थात्पुवो हलक्रीडयोर्मुखे करणे त्रद स्यात् । पोत्रम् ॥ ८९॥ दशस्त्रः।५।२।९० । सदर्थाशेः करणे त्रः स्यात् । दंष्ट्रा ।। ९० ॥ धात्री। ५।२।९१ । देागो वा कर्माण ऋट् स्यात् । धात्री ॥ ९१ ॥ ज्ञानेच्छा_र्थनीच्छील्यादिभ्यः तः।५।२।९। ज्ञानेच्छार्थेभ्यो जीभ्यः शील्यादिभ्यश्च सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञातः। राज्ञामिष्टः । राज्ञां पूजितः । भिन्नः । शीलितः। रक्षितः ॥ . उणादयः । ५।२। ९३ । सदर्थाद्धातोरणादयो बहुलं स्युः । कारुः । ईडुः ॥ ९३ ॥ . इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपज्ञशब्दानुशासनलघुवृत्तो. पञ्चमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy