SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य .३१२ णिङन्तात् यन्तात् सूदादिभ्यश्वशीलादि सदर्थेभ्योऽनो न स्यात् । भावयिता । मायिता । सूदिता । दीपिता । दीक्षिता ॥ ४५॥ द्रमक्रमो यङ्।५।२।४६ । ' शीलादिसदाभ्यां यङन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः। चक्रमणः ॥ ४६॥ यजिजपिदंशिवदादकः।५।२।४७। एभ्योयडन्तेभ्यः शीलादिसदर्थेभ्य ऊकः स्यात् । यायजूकः। जञ्जपूकः। दन्दशूकः । वावदूकः ॥४७॥ . जागुः । ५।२।४८। । शीलादिसदर्थाजागुरूकः स्यात् । जागरूकः ॥४८॥ शमष्टकात् घिनण् । ५।२।४९। शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण स्यात् । शमी। दमी । तमी । श्रमी।भ्रमी । क्षमी । प्रमादी। क्लमी॥ ४९ ॥ युजभुजभजत्यजरञ्जद्विषदुषदुहदुहाभ्या - हनः।५।२।५०। शीलादिसदर्थेभ्य एभ्यो घिनण स्यात् । योगी । भोगी । भागी। त्यागी । रागी । द्वेषी । दोषी । द्रोही । दोही । अभ्याघाती । अकर्मकादित्येव । गां दोग्या ॥ ५० ॥ आङः क्रीडमुषः।५।२।५१ । शीलादिसदाभ्यामाभ्यां आपूर्वाम्यां घिनण स्यात् । आक्रीडी। आमोषी ॥ ५१ ॥ प्राच्च यमयसः।५।२।५२ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy