SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । सनिचक्रिदधिजज्ञिनेमिः ।५।२।३९। एते शीलादौ सदायुक्तमन्तो यन्ता निपात्यन्ते । सनिः।चकिः। दधिः । जज्ञिः । नेमिः ॥ ३९ ॥ शकमगमहनवृषभूस्थ उकण ।५।२।४०॥ शीलादिसदर्थेभ्य एभ्य उकण स्यात् ।शारुकाकामुकः।आगामुकः। घातुकः। वार्षुकः । भावुकः । स्थायुकः ॥ ४०॥ लषपतपदः ।५।२।४१ । शीलादिसदर्थेभ्य एभ्य उकण स्यात् । अभिलाषुकः। प्रपातुकः। उपपादुकः ॥ ४१॥ भूषाक्रोधार्थजुसृगृधिज्वलशुच श्चानः । ५।२।४२ । भूषार्थेभ्यः क्रोधार्थेभ्योज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽनः स्यात् ।भूषणः। क्रोधनः। कोपनः।जवनः। सरणः।गड़ना ज्वलनः। शोचनः। अभिलषणः । पतनः । अर्थस्य पदनः ॥ ४२ ॥ चालशब्दार्थादकर्मकात् । ५।२।४३ । - चालार्थाच्छब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकादनः स्यात् । चलनः खणः। अकर्मकादिति किम् । पठिता विद्या ॥ ४३ ॥ इडितो व्यञ्जनाद्यन्तात् । ५।२।४४। व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितोडितश्च धातोः शीलादिसदर्थादनः स्यात् । स्पर्धनः। वर्तनः। व्यञ्जनाद्यन्तादिति किम् । एधिता। शयिता । अकर्मकादित्येव । वसिता वस्त्रम् ॥ ४४ ॥ नणियसददीपदीक्षः ।५।२।४५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy