SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः । सुखसाध्ये सत्यर्थे वर्तमानाद्धारेरिङश्व परोऽतृश् स्यात् । धारयन्नाचाराङ्गम् । अधीयन् द्रुमपुष्पीयम् ॥ २५ ॥ सुगद्विषार्हः सत्रिशत्रुस्तुत्ये।५।२।२६। सदर्थेभ्य एभ्यो यथासङ्ख्यं सत्रिीण शत्रौ स्तुत्येच कर्तर्यतृश स्यात् । सर्वे सुन्वन्तः।चौरं द्विषन् । पूजामर्हन् । एबिति किम् । सुरां सुनोति ॥२६॥ तृन्शीलधर्मसाधुषु । ५।२।२७। शीलादिषु सदर्थाद्धातोस्तृन् स्यात् । कर्ता कटम् । वधूमूढां मुण्डयितारः श्राविष्टायनाः । गन्ता खेलः ॥ २७ ॥ भ्राज्यऽलङ्कगनिराकृग्भूसहिरुचिवृतिवृधि चरिप्रजनापत्रप इष्णुः ।५।२।२८। एभ्यः शीलादिसदर्थेभ्य इष्णुः स्यात् । भ्राजिष्णुः। अलङ्करिष्णुः। निराकरिष्णुः। भविष्णुः। सहिष्णुः। रोचिष्णुः । वर्तिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । अपत्रपिष्णुः ॥ २८ ॥ उदः पचिपतिपदिमदेः ।५।२।२९। उत्पूर्वेभ्य एभ्यः शीलादिसदर्थेभ्य इष्णुः स्यात् । उत्पविष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । जन्मदिष्णुः ॥ २९ ॥ भूजेः ष्णुक।५।२।३०। आभ्यां शीलादिसदाभ्यां ष्णुक् स्यात् । भूष्णुः । जिष्णुः ॥३०॥ स्थाग्लाम्लापचिपरिमृजिक्षेःस्नुः।५।२।३१॥ एभ्यः शीलादिसदर्थेभ्यः स्नुः स्यात् । स्थास्नुः । ग्लास्नुः। म्लास्नुः। पक्ष्णुः । परिमाणुः । क्षेष्णुः ॥ ३१॥ . त्रसिधिधृषिक्षिपः क्नुः।५।२।३२।।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy