________________
३०८.
हैमशब्दानुशासनस्य नन्वोर्वा । ५।२।१८। नन्वोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद्धातोर्वा वर्तमाना स्यात् साच सद्धत् । किमकार्षीः कटं चैत्र । न करोमि भोः । न कुर्वन्तं मां पश्य। नाकर्षम् । नु करोमि भोः । नुकुर्वाणं मां पश्य । न्वकार्षम् ॥ १८॥
सति ।५।२।१९। वर्तमानार्थाद्धातोर्वर्तमाना स्यात् । अस्ति कूरं पचति । मांसं न भक्षयति । इहाधीमहे । तिष्ठन्ति पर्वताः १९ ॥ शत्रानशावेष्यति तु सस्यौ।५।२।२०।
सदर्थाद्धातोः शत्रानशौ स्यातां भविष्यन्ती विषयेऽर्थेऽस्य युक्तौ । यान् । शयानः । यास्यन् । शयिष्यमाणः ॥२०॥
तो माङयाक्रोशेषु ।५।२।२१ । माङ्युपपदे आक्रोशे गम्ये तो शत्रानशावेव स्याताम् । मापचन वृषलो ज्ञास्यति । मापचमानोऽसौ मर्तुकामः ॥२१॥
वा वेत्तेः क्वसुः।५।२।२२। सदर्थादेत्तेः क्वसुर्वा स्यात् । तत्त्वं विद्वान् । विदन् ॥२२॥ पूङयजः शानः।५।२।२३। आभ्यां सदाभ्यां परः शानः स्यात् । पवमानः यजमानः ॥२३ ।। वयः शक्तिशीले।५।२।२४।
एषु गम्येषु सदर्थाद्धातोःशानः स्यात् । स्त्रियं गच्छमानाः । समनानाः। परान्निन्दमानाः॥ २४ ॥
धारीङोऽकृच्छ्रेऽतृश् । ५।२।२५।