________________
स्वोपज्ञलघुवृत्तिः।
३०७ कृतस्यापि चित्तविक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद्धातोः परोक्षा स्यात् । सुप्तोहं किल विललाप । कलिङ्गेषु ब्राह्मणा हतस्त्वया । नाहं कलिङ्गान् जगाम ॥ ११ ॥
परोक्षे।५।२।१२। भूतानद्यतने परोक्षार्थाद्धातोः परोक्षास्यात् । धर्म दिदेश तीर्थङ्करः।। हशश्वद्युगान्तःप्रच्छयेशस्तनीचा५।२।१३। - हे शश्वतिच प्रयुक्ते पञ्चवर्षमध्यप्रच्छये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोर्यस्तनीपरोक्षे स्याताम् । इतिहाकरोत् । इतिह चकार शश्वदकरोत् । शश्वञ्चकार । किमगच्छस्त्वं मथुराम् । किं जगन्थ त्वं मथुराम् ॥
अविवक्षिते ।५।२।१४।। भूतान्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद्धातोमुस्तनी स्यात् । अहन कंसं किल वासुदेवः ॥ १४ ॥ वाऽद्यतनी पुरादौ । ५।२।१५।
भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद्धातोः पुरादाकुपपदे अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्राः। पक्षे । अवसन् । उषुर्वा । तदाभाषिष्ट राघवः । पक्षे । अभाषत । बभाषे वा ॥ १५॥
स्मे च वर्तमाना । ५।२।१६ ।
भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् । वसन्तीह पुरा छात्राः । अथाह वर्णी ॥ १६ ॥
ननौ पृष्टोक्तौ सद्वत् । ५।२।१७।
ननावुपफ्दे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद्धातोर्वर्तमानेव वर्तमाना स्यात् । किमकार्षीः कर्ट चैत्र । ननु करोमि मोः। ननु कुर्वन्तं मां पश्य ॥१७॥