________________
३०.६
हैमशब्दाबुशासनस्य अनद्यतनादिविशेषाऽविवक्षायां व्यामिश्रणेच सति भूतार्थाद्धातोरद्यतनी स्यात् । रामो वनमगमत् । अद्य ह्यो वाऽभुक्ष्महि ॥ ५॥ रात्री वसोऽन्त्ययामास्वप्तर्यद्य ।५।२।६।
रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात् सचेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामंव्याप्त्याऽस्वप्तरि कर्तरि स्यात् । अद्यतनवान्त्ययामेनावच्छिन्ने अद्यतनेचेत्प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । गत्र्य ऽन्त्ययामे तु मुहूर्तमपि स्वापेऽमुत्रावसमिति ॥६॥ .. अनद्यतने शस्तनी।५।२।७।
आन्याय्यादुत्थानादान्याय्याच्चसंवेशनादहरुभयतः सार्द्धरात्रं वा. ऽद्यतनः, तस्मिन्नसति भूतार्थाद्धातोर्यस्तनी स्यात् । अकरोत् ॥७॥
___ ख्याते दृश्ये । ५।२।८। __ लोकविज्ञाते प्रयोक्तः शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद्धातोयस्तनी स्यात् । अरुणसिद्धराजोऽयन्तीम् । ख्यात इति किम् । चकार कटम् । दृश्य इति किम् । जघान कंसं किल वासुदेवः ॥ ८॥ अयदि स्मृत्यर्थे भविष्यन्ती।५।२।९।
स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थवृत्ते तोर्भविष्यन्ती स्यात् अयद्योगे । स्मरसि साधो स्वर्गे स्थास्यामः। अयदीति किम्। अभिजानासि मित्र यत्कलिङ्गेष्यवसाम ॥ ९ ॥
वा काङ्क्षायाम् । ५।२।१०। __ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतना. थीद्धातोभविष्यन्ती वा स्यात् । स्मरसि मित्र काश्मीरेषु वत्स्यामोऽवसाम वा। तत्रौदनं भोक्ष्यामहे, अभुञ्जमहि वा ॥ कृतास्मरणाऽतिनिन्हवे परोक्षा।५।२।११।