________________
स्वोपज्ञलघुवृत्तिः ।
जुषेर्भूतार्थादतः स्यात् । जरती ॥ १७३ ॥ तक्तवतू । ५ । १ । १७४ । भूतार्थाद्धातोरेतौ स्याताम् । कृतः । कृतवान् ॥ १७४ ॥
३०६
इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपज्ञशब्दा नुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः समाप्तः ।
900 80000
अर्हम् ।
श्रुतदवस्भ्यः परोक्षा वा । ५ । २ । १ ।
एभ्यो भूतार्थेभ्यः परोक्षा वा स्यात् । उपशुश्राव । उपससाद । अनूवास | पक्षे । उपाश्रौषीत् । उपाशृणोत् । उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् ॥ १ ॥
तत्र सुकानौ तद्वत् । ५।२।२।
परोक्षामात्रविषये धातोः परौ क्वसुकानौ स्यातां तौ च परोक्षेव । शुश्रुवान् । सेदिवान् । ऊषिवान् । पेचिवान् । पेचानः ॥ २ ॥
वेयिवदनाश्वदनूचानम् । ५ । २ । ३ ।
एते भूतेऽर्थे कसुकानान्ताः कर्त्तरि वा निपात्यन्ते । समीयिवान् । अनाश्वान् । अनूचानः । पक्षे । अगात् । उपैत् । उपेयाय । नाशीत् । नाश्नात् । नाश । अन्ववोचत् । अन्ववकूंं । अन्वब्रवीत् । अनूवाच ॥ अद्यतनी । ५ । २।४। तार्थाद्धातोरद्यतन स्यात् । अकार्षीत् ॥ ४ ॥ विशेषाऽविवक्षाव्यामिश्रे । ५।२।५ ।
३९