SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च । ५ । १ । १२० । एभ्यः कर्मभ्यः परादध्मदेश्व खश स्यात् । नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः । खरिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः ॥ १२० ।। पाणिकरात् । ५ । १ । १२१ । १९८ आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् । पाणिन्धमः । करन्धमः ॥ । १२२ । कूलादुदुजोद्वहः । ५ । १ कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुड्डजः । कूलमुद्वहः १२२॥ वहाभ्रालिहः । ५ । १ । १२३ । आभ्यां कर्मभ्यां पराल्लिहः खश स्यात् । वहंलिहः । अभ्रंलिहः ॥ बहुविध्वरुस्तिलात्तुदः । ५ । १ । १२४ । एभ्यः कर्मभ्यः परादेः खश स्यातं । बहुन्तुदः । विधुन्तुदः । अरुन्तुदः । तिलन्तुदः ॥ १२४ ॥ ललाटवातशर्द्धात्तपाऽजहाकः ।५।१।१२५। एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहागभ्यः खशं स्यात् । ललाटन्तपः । वातमजः । शर्द्धअहः ।। १२५ ।। असूर्योग्राद् दृश: । ५ । १ । १२६ । आभ्यां कर्मभ्यां पराहृशेः खश् स्यात् । असूर्यम्पश्यः । उग्रम्पश्यः॥ इरम्मदः । ५ । १ । १२७। इरापूर्वान्मदेः खश स्यात् । इरम्मदः ॥ १२७ ॥ 1
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy