SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ १९४ हेमसान्दानुशासनस्य . नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च । ५।१।१२० । एभ्यः कर्मभ्यः परामद्देश्च खश स्थात्। नाडिन्धमः। नाडिन्धयः। घटिन्धमः । घटिन्धयः। खरिन्धमः । खरिन्धयः । मुष्टिन्धमः। मुष्टिन्धयः। नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः ॥ १२० ॥ पाणिकरात् । ५।१ । १२१ । आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् । पाणिन्धमः । करम्धमः॥ कूलादुद्रुजोद्वहः । ५।१।१२२ । कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् ।कूलमुगुजः। कूलमुहः१२२॥ वहाभ्राल्लिहः। ५। १। १२३ । आभ्यां कर्मभ्यां पराल्लिहः खश स्यात् । वहलिहः । अभ्रंलिहः॥ बहुविध्वरुस्तिलातुदः।५।१।१२४ । एभ्यः कर्मभ्यः पराजुदेः खश स्यात् । बहुन्तुदः । विधुन्तुदः । अरुन्तुदः । तिलन्तुदः ॥ १२४ ॥ ललाटवातश‘त्तपाऽजहाकः।५।१।१२५। एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहागभ्यः खश स्यात् । ललाटन्तपः । वातमजः। शर्द्धअहः ॥ १२५ ॥ असूर्योग्राद् दृशः । ५।१।१२६ । आभ्यां कर्मभ्यां पराशेः खश स्यात् । असूर्यम्पश्यः । उग्रम्पश्यः॥ इरम्मदः ।५।१।१२७। . इरापूर्वान्मदेः खश स्यात् । इरम्मदः ॥ १२७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy