SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। कर्मणः परेभ्य एभ्यः सहेश्व संज्ञायां खः स्यात् । विश्वम्भरा भूः । पतिम्बरा कन्या। शत्रुञ्जयोऽद्रिः। रथन्तरं साम। शत्रुन्तपो राजा। बलिन्दमः कृष्णः । शत्रुसहो राजा । नाम्नोति किम् । कुटुम्बभारः ॥ ११२॥ धारेधर्च ।५।१।११३। कर्मणः पराद्धारेः संज्ञायां खः स्यात् धारेश्च धर् । वसुन्धरा भूः।।११३॥ पुरन्दरभगन्दरौ।५।१।११४ । एतौ संज्ञायां खान्तौ निपात्येते। पुरन्दरः शक्रः । भगन्दरो व्याधिः॥ वाचंयमोत्रते।५।१।११५। व्रते गम्यमाने वाचः कर्मणः पराद्यमेः खो वाचो ऽमन्तश्च स्यात् । वाचयमो व्रती ॥ ११५॥ मन्याण्णिन् । ५।१।११६ । कर्मणः परान्मन्यतेणिन् स्यात् । पण्डितमानी बन्धोः ॥ ११६ ॥ कर्तुः खश । ५।१।११७। प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश स्यात् । पण्डितम्मन्यः कर्तुरिति किम् । पटुमानी चैत्रस्य ॥११७॥ एजेः । ५।१।११८। कर्मणः परादेजयतेः खश स्यात् । अरिमेजयः ॥ ११८ ॥ शुनीस्तनमुञ्जकूलास्यपुष्पात् एभ्यः कर्मभ्या देखश स्यात् । शुनिन्धयः। स्तनन्धयः। मुअन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः ॥ ११९ ॥ ..
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy