SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य कर्मशब्दात कर्मणः परात्कृगो भृतौ गम्यायां टन स्यात् । कर्मकरी दासी ॥ १०४ ॥ क्षेमप्रियमद्रभद्रात् खाऽण् । ५१११०५। एम्वः कर्मभ्यः परात् कृगः खाणौ स्याताम् । क्षेमङ्करः। क्षेमकारः । प्रियङ्करः । प्रियकारः। मद्रकरः । मद्रकारः। भद्रकरः। भद्रकारः॥१०॥ मेघर्तिभयाभयात्खः।५।१।१०६। - एभ्यः कर्मभ्यः परात्कृमः खः स्यात् । मेघङ्करः। ऋतिङ्करम भयङ्करः। अभयङ्करः ॥ १०६ ॥ प्रियवशाद्वदः।५।१।१०७। आभ्यां कर्मभ्यां परावदः खः स्यात् । प्रियम्बदः। वशम्बदः॥१०७॥ द्विषन्तपपरन्तपौ।५।१।१०८। द्विषत्पराभ्यां कर्मम्यां परात् ण्यन्तात् तपेः खो हस्खो द्विषतोऽच्च निपात्यते । द्विषन्तपः। परन्तपः॥१०८। परिमाणार्थमितनखात्पचः । ५।१।१०९। प्रस्थादिमितनखेभ्यः कर्मभ्यः परात्यचेः खः स्यात् । प्रस्थम्पत्रः। मितम्पचः। नखम्पचः ॥ १०९॥ कूलाभकरीषात्कषः।५।१।११० । एभ्यः कर्मभ्यः कषेः खः स्यात् । कूलङ्कषा। अभ्रषा । करीषकषा ॥ ११०॥ सर्वात्सहश्च । ५।१।१११ । सर्वोत्कर्मणः परात् सहेः कषेश्व खः स्यात् । सर्वसहः। सर्वकषः ॥ भृवृजितृतपदमेश्च नाम्नि ।५।१।११२।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy