SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुपत्तिः । . आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्सवीह्यो कॉरि स्यात् । सकृतकरिवत्सः। स्तम्बकरिीहिः ॥ १००॥ किंयत्तद्बहोरः।५।१।१०१ । - एभ्यः कर्मभ्यः परात् कृगो,अः स्यात् । किंकरा। यत्करा । तत्करा। बहुकरा ॥ १०१॥ सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकाधन्तानन्तकारबाह्ररुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः ।५।१।१०२। सङ्ख्येत्यर्थप्रधानमपि एभ्यः कर्मभ्यः परात्कृगष्टः स्यात् । सङ्ख्याकरः । दिकरः । अहस्करः। दिवाकरः । विभाकरः । निशाकरः । प्रभाकरः । भास्करः । चित्रकरः। कर्तृकरः । आदिकरः। अन्तकरः। अनन्तकरः । कारकरः । बाहुकरः। अरुष्करः। धनुष्करः। नान्दीकरः। लिपिकरः । लिविकरः । बलिकरः । भक्तिकरः । क्षेत्रकरः । जङ्घाकरः । क्षपाकरः । क्षणदाकरः। रजनिकरः । दोषाकरः । दिनकरः। दिवसकरः ॥ १०२॥ हेतुतच्छीलानुकूले ऽशब्दश्लोककलहगाथा वैरचाटुसूत्रमन्त्रपदात्।५।१।१०३।। एषुकर्तृषु शब्दादिवर्जात् कर्मणः परात्कृष्टः स्यात् । यशस्करी विद्या ।श्राद्धकरः प्रेषणकरः।शब्दादिनिषेधः किम् । शब्दकार इत्यादि। भृतौ कर्मणः।५।१।१०४।।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy