SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २९४ हेमशब्दानुशासनस्य : सूत्रात्कर्मणः पराद् ग्रहो ग्रहणपूर्वकधारणार्थादच् स्यात् । सूत्रग्रहः प्राज्ञः सूत्रधारो वा । धारण इति किम् । सूत्रग्राहः ॥ ९३ ॥ आयुधादिभ्यो धृगोऽदण्डादेः । ५ । १ । ९४ । 'दण्डादिवर्जादायुधादेः कर्मणः पराद् धृगोऽच् स्यात् । धनुर्द्धरः । भूधरः । अदण्डादेरिति किम् । दण्डधारः । कुण्डधारः ॥ ९४ ॥ गोवयोऽनुद्यमे । ५ । १ । ९५ । कर्मणः पराद्धृगो वयस्यनुद्यमेच गम्येऽच् स्यात् । अस्थिहरः श्वशिशुः । उद्यमः उत्क्षेपणमाकाशे धारणं वा तदभावे । अंशहरो दायादः। मनोहरा माला । योऽनुद्यम इति किम् । भारहारः ॥ ९५ ॥ आङः शीले । ५ । १ । ९६ । | कर्मणः परादाङ्पूर्वाद्धृगेः शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् । पुष्पाहारः ॥ ९६ ॥ दृतिनाथात् पशाविः । ५ । १ । ९७ । । आभ्यां कर्मम्यां पराद्धृगः पशौ कर्त्तरि इः स्यात् । इतिहरिः श्वा । नाथहरिः सिंहः ॥ ९७ ॥ रजःफलेमलाद् ग्रहः । ५ । १ । ९८ । एभ्यः कर्मभ्यः पराद् ग्रहेरिः स्यात् । रजोग्रहिः । फलेग्रहिः । मलग्रहिः ॥ ९८ ॥ देववातादापः । ५ । १ । ९९ । आभ्यां कर्मभ्यां परादापेरिः स्यात् । देवापिः । वातापिः ॥९९॥ सकृतस्तम्बाडत्सव्रीहौ कृगः। ५ । १ । १०० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy