SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ हबोपजलघुवृतिः। आशिष्यऽकन् । ५।१। ७० । आशिषि गम्यायां धातोरकन स्यात् । जीवका। आशिषीति किम् । जीविका ॥ ७० ॥ तिक्कृतौ नाम्नि । ५।१।७१। .... आशीविषये संज्ञायां गम्यमानायां धातोस्तिक कृतश्च स्युः । शान्तिः । वीरभूः । वर्द्धमानः ॥७१ ॥ । कर्मणोऽण् । ५।१। ७२ । कर्मणः पराद्धातोरण स्यात् । कुम्भकारः ॥ ७२ ॥ शीलिकामिभक्ष्याचरीक्षिक्षमोणः।५।१।७३। कर्मणः परेभ्यः एभ्यो णः स्यात् । धर्मशीला । धर्मकामा । वायुभक्षा । कल्याणाचारा । सुखप्रतीक्षा । बहुक्षमा ॥ ७३ ॥ गायोऽनुपसर्गाट् टक्।५।१।७४ । ___ कर्मणः परादनुपसर्गात् गायतेष्टक् स्यात् । वक्रगी। अनुपसर्गादिति किम् । खरुसंगायः ॥ ७४ ॥ - सुरासीधोः पिबः । ५।१। ७५। आभ्यां कर्मभ्यां परादनुपसर्गात्पिबतेष्टक् स्यात् । सुरापी । सीधुपी ॥ ७५ ॥ आतोडोऽहावामः।५।१। ७६ । कर्मणः परादनुपसर्गाहावामावर्जादादन्ताद्धातोः स्यात् । गोदर्भ अह्वावाम इति किम् । स्वर्गहाया। तन्तुवायः। धान्यमायः ॥ ७६ ॥ समः ख्यः । ५।१।७७ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy