SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २९० हेमशन्दानुशासनस्य ज्वलादेर्धातोर्दुनोत्यादेरास्रोश्चानुपसर्गाष्णो वा स्यात् । ज्वलः । ज्वालः । चलः । चालः । दवः। दावः । नयः । नायः। भवः । भावः । पाहो मकारादिः। ग्रहः सूर्यादिः। आस्रवः। आस्रावः। अनुपसर्गादिति किम् । प्रज्वलः ॥६॥ अवहसासंस्रोः ।५।१। ६३ । अवपूर्वाभ्यां हृसाभ्यां संपूर्वाच्च स्रोर्णः स्यात् । अवहारः। अवसायः। संस्रावः ॥६३॥ तन्व्यधीश्वसातः । ५।१।६४। एभ्य आदन्तेभ्यश्च धातुभ्यो णः स्यात् । तानः। व्याधः। प्रत्यायः। श्वासः । अवश्यायः॥ ६४॥ नृतखन्ञ्जः शिल्पिन्यऽकट् ।५।१।६५। एभ्यः शिल्पिनि कर्त्तर्यऽकट् स्यात् । नर्तकी । खनकः । रजकः । शिल्पिनीति किम् । नर्तिका ॥६५॥ गस्थकः।५।१।६६। . गः शिल्पिनि कर्तरि थकः स्यात् । गाथकः ॥६६॥ . टनण् । ५। १ । ६७। गः शिल्पिनि टनण् स्यात् । गायनी ॥ ६७॥ हः कालवीयोः।५।१।६८। हाकोहाङी वाकालव्रीह्योष्टनण स्यात् । हायनो वर्षम् ।हायना व्रीहयः। हाताऽन्यः ॥ ६८॥ घुसल्वोऽकः साधौ ।५।१।६९। एभ्यः साध्वर्थेभ्योऽक: स्यात् । प्रवकः । सरकः। लवकः । साधाविति किम् । प्रावकः ॥ ६९ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy