SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ खोपलघुवृत्तिः । गेहे ग्रहः । ५ । १ । ५५। गेहेऽर्थे ग्रहेः कः स्यात् । गृहम् । गृहाः ॥ ५५ ॥ उपसर्गादातोडोऽश्यः । ५ । १ । ५६ । उपसर्गात्परात् श्यैवर्जादाकारान्ताद्धातोर्डः स्यात् । आह्वः ॥ उपसर्गादिति किम् । दायः अश्य इति किम् । अवश्यायः ॥ ५६ ॥ व्याघ्राघ्रे प्राणिनसोः । ५ । १५७ । एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे घोड़े निपात्यते । व्याघ्रः । आघ्रा ॥ ५७ ॥ घ्राध्मापाट्वेदृशः शः । ५ । १ । ५८ । एभ्यः शः स्यात् । जिघ्रः । उद्धमः । पिवः । उष्द्रयः । उत्पश्यः ॥ साहिसातिवेद्युदेजिधारिपारिचेतेरनुप सर्गात् । ५ । १ । ५९। २८९ एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः शः स्यात् । साहयः । सातयः। वेदयः । उदेजयः । धारयः । पारयः । चेतयः । अनुपसर्गादिति किम् । प्रसाहयिता ।। ५९ ।। लिम्पविन्दः । ५ । १ । ६० । आग्यामनुपसर्गाभ्यां शः स्यात् । लिम्पः । विन्दः ॥ ६० ॥ निगवादेर्नानि । ५ । १ । ६१ । यथासङ्ख्यं निपूर्वाल्लिम्पेर्गवादिपूर्वाच्च विन्देः संज्ञायां शः स्यात् । निलिम्पा देवाः । गोविन्दः । कुविन्दः । नाम्नीति किम् । निलिपः ॥ ६१ ॥ वा ज्वलादिदुनीभूग्रहास्त्रोर्णः | ५ | १/६२ । ३७
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy