________________
२७
स्वोपज्ञलपुवृत्तिः।
२७ औता। १।४।२०। आबन्तस्य औता सहकारः स्यात् । मालेस्तः पश्य वा ॥२०॥ इदुतोऽस्त्रेरीदूत् । १।४।२१।।
स्रेरन्यस्येदन्तस्योदन्तस्य च औता सह प्रथासंख्यम् । ईदूतौ स्याताम् । मुनी। साधू । अस्त्रेरिति किम् । अतिस्त्रियो नरौ ॥२१॥
जस्येदोत् । १।४।२२। इदुदन्तयोजसि परे यथासंख्यमेदोतौ स्याताम् । मुनयः । साधवः ॥ २२ ॥ . ङित्यादिति । १।४।२३।
अदिति ङिति स्यादौ परे इदुदन्तयोर्यथासंख्यमेदोतौ स्याताम् । अतिस्त्रये। साधते । अतिस्त्रः साधोरागतम् स्वम् वा। अदितीतिकिम् । बुद्धयाः। धेन्वाः । स्यादावित्येव शुची स्त्री ॥२३॥
टः पुंसि ना।१।४।२४। इदुदन्तात्परस्याः पुंविषयायाष्टाया ना स्यात् । अतिस्त्रिणा। अमुना । पुंसीतिकिम् । बुद्ध्या ॥ २४ ॥
डिौँ । १।४। २५ । इदुदन्तात्परोडिौँः स्यात् । मुनौ । धेनौ। अदिदित्येव । बुद्ध्याम् ॥ २५ ॥
केवलसखिपतेरौ । १।४।२६। केवलसखिपतिभ्यामिदन्ताभ्याम् परो डिरौः स्यात् । सख्यौ । पत्यौ । इत इत्येव । सखायमिच्छति । पतिमिच्छति । सख्यि। पत्यि । केवलेतिकिम् । प्रियसखौ । नरपतौ ॥ २६ ॥