SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य तृतीयान्तात् पूर्वावरंयोगे। १।४।१३। तृतीयान्तात्परौ पूर्वावरौ योगे सम्बन्धेसति सर्वादी न स्याताम्। मासेनपूर्वाय मासपूर्वाय । दिनेनावराय दिनावराय । दिनेनावराः दिनावराः । तृतीयान्तादितिकिम् । पूर्वस्मै मासेन ॥१३॥ तीयं ङित्कार्ये वा । १।४।१४। तीयान्तम् नाम डेडसि ङस् डीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै द्वितीयाय । द्वितीयस्यै द्वितीयायै । ङित्कार्यइतिकिम् । द्वितीयकाय ॥ १४ ॥ अवर्णस्यामः साम् । १।४।१५। अवर्णान्तस्य सर्वादेरामः साम् स्यात् । सर्वेषाम् । विश्वासाम्॥१५॥ नवभ्यः पूर्वेभ्य इस्मास्मिन्वा।१।४।१६। पूर्वादिभ्यो नवभ्यो ये इस्मास्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । इत्यादि । नवभ्यइति किम् त्ये ॥ १६ ॥ आपोडितां यै यास यास्याम् । १।४।१७॥ ___ आबन्तस्य जिताम् डेङसिङसङीनां यथासंख्यम् पै यास् यास् यामः स्युः । खट्वायै । खट्वायाः । खवायाः। खट्वायाम् ॥१७॥ सवादेडसपूवाः । १।४।१८। सर्वादेराबन्तस्य जिताम् यै यास् यास् यामस्ते डस्पूर्वाः स्युः । सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् ॥ १८॥ टौस्येत् । १।४।१९। आबन्तस्य टोसोः परयोरेकारः स्यात् । बहुराजया । बहुराजयोः ॥ १९ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy