SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलावृत्तिः। सर्वादेः स्मैस्मातौ।१।४।७। सर्वादेरदन्तस्य सम्बन्धिनो डेङस्योर्यथासंख्यं स्मैस्मातौ स्याताम् । सर्वस्मै । सर्वस्मात् । सर्व विश्व उभ उभयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम । समसिमौसर्वार्थों । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् ।स्वमज्ञातिधनाख्यायाम् । अन्तरम्बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतु किम् इत्यसंज्ञायाम सर्वादिः ॥ ७॥ ' : स्मिन् । १।४।८। सर्वादेरदन्तस्य ः स्मिन् स्यात् । सर्वस्मिन् ॥ ८॥ . जस इः।१।४।९। सर्वादेरदन्तस्य जस इ: स्यात् । सर्वे ॥ ९॥ नेमा प्रथमचरमतयायाल्पकतिपयस्य वा १।४।१०। नेमादीनि नामानि तयायौ प्रत्ययौ तेषामदन्तानां जस इर्वा स्यात् । नेमे नेमाः । अर्द्ध अर्द्धाः। प्रथमे प्रथमाः । चरमे चरमाः। द्वितये द्वितयाः । त्रये त्रयाः । अल्पे अल्पाः। कतिपये कतिपयाः ॥ १० ॥ द्वन्द्वे वा।१।४।११ । द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे । पूर्वोत्तराः ॥ ११ ॥ न सर्वादिः । १।४।१२। दन्दे सर्वादिः सर्वादिर्न स्वात् । पूर्वापराय । पूर्वापरात् । पूर्वापरे । कतरकतमानाम् । कतरकतमकाः॥ १२ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy